श्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्र

विकिपीडिया, मुक्‍त ज्ञानकोशातून

।। श्रीराम जय राम जय जय राम ।।

।। श्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्र ।।

श्रीरामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥

राक्षसान्तकरो धीरो भक्‍तभाग्यविवर्धनः ॥१॥

मरेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥

जन्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥

यदा यदा भवेद्‌ग्लानिर्धर्मस्यच तदा तदा ॥

राक्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥

महामोहकरी माया यत्प्रसादाद्विनश्यति ॥

जघन्या अपि पूजाश्‍च पावना बहवोऽभवन् ॥४॥

यस्य प्रसादतो जातो हनूमान् महतो महान् ॥

जन्ममृत्युजरादुःखान्मुक्‍तोऽद्यापिविराजते ॥५॥

यस्मात्परतरन्नास्ति यस्य नाम महद्यशः ॥

रामं लोकाभिरामं तं व्रजामः शरणं मुदा ॥६॥

ममैतयिति नः सर्वान् संसारात्तारयिष्यति ॥

श्रीराम जयरामेति जय जयेति जपाद्‌धृवम् ॥७॥

राम एव परब्रह्म राम एव परागतिः ॥

मनः शान्तिकरोरामो मन्मथारिनमस्कृतः ॥८॥

जयत्रययुतः श्रेष्ठो रामत्रययुतो मनुः ॥

यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥९॥

रामः श्रीसीतया युक्‍तः सर्वैश्‍वर्यद इत्यपि ॥

मह्त्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥१०॥

जय रामपदेनायं जयरूप इतीर्यते ॥

यतोऽसौ जयरुपो ही जयार्हो जयदस्तथा ॥११॥

जय जयेति पदेऽर्थोयं द्योतते सर्वरिद्धिदः ॥

यस्मिन्न माया नाविद्या तस्मिन्मोहःकथं भवेत् ॥१२॥

रामत्रये दाशरथिश्‍चेशो ब्रह्मेति कथ्यते ॥

मरुद्रात्मजसन्त्राता मोचयेन्मदनादपि ॥१३॥

श्रीरामेति पदं पूर्वं जय रामेति वै ततः ॥

रामोऽत्र द्विर्जयात्पश्‍चाद्वर्तते मनुराजके ॥१४॥

महासंसारव्यामोहान्मोचयत्याश्‍वयं मनुः ॥

जपनीयः कीर्तनीयो मुदा सर्वैश्‍च सर्वदा ॥१५॥

यक्षराक्षसभूताद्या पीडाऽनेन विनश्यति ॥

रामो धनुर्धरो नित्यं संरक्षति पदे पदे ॥१६॥

मदोन्मत्तनरैश्‍चापि न दुःखं लभते कदा ॥

जन्मसन्तापचंद्रोऽयं ज्ञानविज्ञानदो मनुः ॥१७॥

यत्र कुत्रापि जप्योऽयं शुचिर्वाप्यशुचिस्तथा ॥

जपतः शान्तिमाप्नोति प्रशस्तोऽस्मिन् कलौ मतः ॥१८॥

यज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् ॥

रामेणैव पुरादिष्टः षडङगादिविवर्जितः ॥१९॥

मरुत्सुतावताराय रामदासाय धीमते ॥

श्रीरमवरयुक्‍तोऽयं सुलभोऽपि फलाधिकः ॥२०॥

त्रैलोक्यपावनीपुण्या मुक्‍तिदा राघव स्तुतिः ॥

भद्रं तनोतु लोकेषु गंगेव किल सर्वदा ॥

॥इति श्रीरामदासानुग्रहीत रामपदकंजभृंगायमान श्रीश्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्रं संपूर्णम् ॥